देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि
ॐ परमानन्दलहर्यै नमः ।
ॐ परचैतन्यदीपिकायै नमः ।
ॐ स्वयम्प्रकाशकिरणायै नमः ।
ॐ नित्यवैभवशालिन्यै नमः ।
ॐ विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः ।
ॐ आदिमध्यान्तरहितायै नमः ।
ॐ महामायाविलासिन्यै नमः ।
ॐ गुणत्रयपरिच्छेत्र्यै नमः ।
ॐ सर्वतत्त्वप्रकाशिन्यै नमः ।
ॐ स्त्रीपुंसभावरसिकायै नमः । 10 ।
ॐ जगत्सर्गादिलम्पटायै नमः ।
ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः ।
ॐ अनादिवासनारूपायै नमः ।
ॐ वासनोद्यत्प्रपञ्चिकायै नमः ।
ॐ प्रपञ्चोपशमप्रौढायै नमः ।
ॐ चराचरजगन्मय्यै नमः ।
ॐ समस्तजगदाधारायै नमः ।
ॐ सर्वसञ्जीवनोत्सुकायै नमः ।
ॐ भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमायै नमः ।
ॐ सर्वाकर्षणवश्यादिसर्वकर्मधुरन्धरायै नमः । 20 ।
ॐ विज्ञानपरमानन्दविद्यायै नमः ।
ॐ सन्तानसिद्धिदायै नमः ।
ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः ।
ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः ।
ॐ गृहग्राममहाराज्यसाम्राज्यसुखदायिन्यै नमः ।
ॐ सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदायै नमः ।
ॐ ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमायै नमः ।
ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः ।
ॐ निग्रहानुग्रहाध्यक्षायै नमः ।
ॐ ज्ञाननिर्द्वैतदायिन्यै नमः ।
ॐ परकायप्रवेशादियोगसिद्धिप्रदायिन्यै नमः । 30 ।
ॐ शिष्टसञ्जीवनप्रौढायै नमः ।
ॐ दुष्टसंहारसिद्धिदायै नमः ।
ॐ लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डलायै नमः ।
ॐ एकस्यै नमः ।
ॐ अनेकात्मिकायै नमः ।
ॐ नानारूपिण्यै नमः ।
ॐ अर्धाङ्गनेश्वर्यै नमः ।
ॐ शिवशक्तिमय्यै नमः ।
ॐ नित्यशृङ्गारैकरसप्रियायै नमः । 40 ।
ॐ तुष्टायै नमः ।
ॐ पुष्टायै नमः ।
ॐ अपरिच्छिन्नायै नमः ।
ॐ नित्ययौवनमोहिन्यै नमः ।
ॐ समस्तदेवतारूपायै नमः ।
ॐ सर्वदेवाधिदेवतायै नमः ।
ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः ।
ॐ निधिसिद्धिमणीमुद्रायै नमः ।
ॐ शस्त्रास्त्रायुधभासुरायै नमः ।
ॐ छत्रचामरवादित्रपताकाव्यजनाञ्चितायै नमः । 50 ।
ॐ हस्त्यश्वरथपादातामात्यसेनासुसेवितायै नमः ।
ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः ।
ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः ।
ॐ मणिद्वीपान्तरप्रोद्यत्कदम्बवनवासिन्यै नमः ।
ॐ चिन्तामणिगृहान्तःस्थायै नमः ।
ॐ मणिमण्टपमध्यगायै नमः ।
ॐ रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिन्यै नमः ।
ॐ सदाशिवमहालिङ्गमूलसङ्घट्टयोनिकायै नमः ।
ॐ अन्योन्यालिङ्गसङ्घर्षकण्डूसङ्क्षुब्धमानसायै नमः ।
ॐ कलोद्यद्बिन्दुकालिन्यातुर्यनादपरम्परायै नमः । 60 ।
ॐ नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृतायै नमः ।
ॐ कामराजमहातन्त्ररहस्याचारदक्षिणायै नमः ।
ॐ मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दर्यै नमः ।
ॐ श्रीचक्रराजनिलयायै नमः ।
ॐ श्रीविद्यामन्त्रविग्रहायै नमः ।
ॐ अखण्डसच्चिदानन्दशिवशक्तैक्यरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ त्रिपुरावासरसिकायै नमः । 70 ।
ॐ त्रिपुराश्रीस्वरूपिण्यै नमः ।
ॐ महापद्मवनान्तस्थायै नमः ।
ॐ श्रीमत्त्रिपुरमालिन्यै नमः ।
ॐ महात्रिपुरसिद्धाम्बायै नमः ।
ॐ श्रीमहात्रिपुराम्बिकायै नमः ।
ॐ नवचक्रक्रमादेव्यै नमः ।
ॐ महात्रिपुरभैरव्यै नमः ।
ॐ श्रीमात्रे नमः ।
ॐ ललितायै नमः ।
ॐ बालायै नमः । 80 ।
ॐ राजराजेश्वर्यै नमः ।
ॐ शिवायै नमः ।
ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः ।
ॐ अर्धमेर्वात्मचक्रस्थायै नमः ।
ॐ सर्वलोकमहेश्वर्यै नमः ।
ॐ वल्मीकपुरमध्यस्थायै नमः ।
ॐ जम्बूवननिवासिन्यै नमः ।
ॐ अरुणाचलशृङ्गस्थायै नमः ।
ॐ व्याघ्रालयनिवासिन्यै नमः ।
ॐ श्रीकालहस्तिनिलयायै नमः । 90 ।
ॐ काशीपुरनिवासिन्यै नमः ।
ॐ श्रीमत्कैलासनिलयायै नमः ।
ॐ द्वादशान्तमहेश्वर्यै नमः ।
ॐ श्रीषोडशान्तमध्यस्थायै नमः ।
ॐ सर्ववेदान्तलक्षितायै नमः ।
ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः ।
ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः ।
ॐ जीवेश्वरब्रह्मरूपायै नमः ।
ॐ श्रीगुणाढ्यायै नमः ।
ॐ गुणात्मिकायै नमः । 100 ।
ॐ अवस्थात्रयनिर्मुक्तायै नमः ।
ॐ वाग्रमोमामहीमय्यै नमः ।
ॐ गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिण्यै नमः ।
ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः ।
ॐ महायोगीश्वराराध्यायै नमः ।
ॐ महावीरवरप्रदायै नमः ।
ॐ सिद्धेश्वरकुलाराध्यायै नमः ।
ॐ श्रीमच्चरणवैभवायै नमः । 108
इति देवीवैभवाश्चर्याष्टोत्तरशतनामावलिः ।
अक्सर पूछे जाने वाले प्रश्न
What is देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि?
देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि is a Devi Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.