श्रीमद्भगवद्गीता पारायण – गीता महात्म्यम्


अथ गीतामाहात्म्यं

धरोवाच

भगवन् परमेशान भक्तिरव्यभिचारिणी ।
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ 1 ॥

श्रीविष्णुरुवाच
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा ।
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥ 2 ॥

महापापादिपापानि गीताध्यानं करोति चेत् ।
क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् ॥ 3 ॥

गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते ।
तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥ 4 ॥

सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च ये ।
गोपाला गोपिका वाऽपि नारदोद्धवपार्षदैः ॥ 5 ॥

सहायो जायते शीघ्रं यत्र गीता प्रवर्तते ।
यत्र गीताविचारश्च पठनं पाठनं श्रुतम् ।
तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ 6 ॥

गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् ।
गीताज्ञानमुपाश्रित्य त्रीँल्लोकान्-पालयाम्यहम् ॥ 7 ॥

गीता मे परमा विद्या ब्रह्मरूपा न संशयः ।
अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥ 8 ॥

चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् ।
वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता ॥ 9 ॥

योऽष्टादशं जपेन्नित्यं नरो निश्चलमानसः ।
ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥ 10 ॥

पाठेऽसमर्थः सम्पूर्णे ततोऽर्धं पाठमाचरेत् ।
तदा गोदानजं पुण्यं लभते नात्र संशयः ॥ 11 ॥

त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् ।
षडंशं जपमानस्तु सोमयागफलं लभेत् ॥ 12 ॥

ऎकाध्यायं तुयो नित्यं पठते भक्तिसंयुतः ।
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥ 13 ॥

अध्यायं श्लोकपादं वा नित्यं यः पठते नरः ।
स याति नरतां यावत् मन्वन्तरं वसुन्धरे ॥ 14 ॥

गीतायाः श्लोकदशकं सप्त पञ्च चतुष्टयम् ।
द्वौत्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः ॥ 15 ॥

चन्द्रलोकमवाप्नोति वर्षाणामयुतं धृवम् ।
गीतापाठसमायुक्तः मृतो मानुषतां व्रजेत् ॥ 16 ॥

गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमम् ।
गीतेत्युच्चारसंयुक्तः म्रियमाणो गतिं लभेत् ॥ 17 ॥

गीतार्थश्रवणासक्तः महापापयुतोऽपि वा ।
वैकुण्ठं समवाप्नोति विष्णुना सहमोदते ॥ 18 ॥

गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः ।
जीवन्मुक्तः स विज्ञेयः देहान्ते परमं पदम् ॥ 19 ॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ 20 ॥

गीतामाश्रित्य बहवः भूभुजो जनकादयः ।
निर्धूतकल्मषा लोके गीता याताः परं पदम् ॥ 21 ॥

ते शृण्वन्ति पठन्त्येव गीताशास्त्रमहर्निशम् ।
न ते वै मानुषा ज्ञेया देवा एव न संशयः ॥ 22 ॥

ज्ञानाज्ञानकृतं नित्यं इन्द्रियैर्जनितं च यत् ।
तत्सर्वं नाशमायाति गीतापाठेन तक्षणम् ॥ 23 ॥

धिक् तस्य ज्ञानमाचारं व्रतं चेष्टां तपो यशः ।
गीतार्थपठनं नाऽस्ति नाधमस्तत्परो जनः ॥ 24 ॥

संसारसागरं घोरं तर्तुमिच्छति यो जनः ।
गीतानावं समारुह्य पारं याति सुखेन सः ॥ 25 ॥

गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् ।
वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः ॥ 26 ॥

एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः ।
स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ॥ 27 ॥

सूत उवाच
माहात्म्यमेतद्गीतायाः मया प्रोक्तं सनातनम् ।
गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं भवेत् ॥ 28 ॥

इति श्री वराहपुराणे श्री गीतामाहात्म्यं सम्पूर्णम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अक्सर पूछे जाने वाले प्रश्न

What is श्रीमद्भगवद्गीता पारायण - गीता महात्म्यम्?

श्रीमद्भगवद्गीता पारायण - गीता महात्म्यम् is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read श्रीमद्भगवद्गीता पारायण - गीता महात्म्यम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्रीमद्भगवद्गीता पारायण - गीता महात्म्यम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook